Wednesday 24 July 2013

संस्कृतम्

संभाषण संस्कृतम् :-


भाषाणां अस्ति संस्कृतम्| भाषितुं योग्या भाषा| तस्मात संस्कृतभाषा सम्भाषनयोग्या|अस्माकं  पूर्वजा:संस्कृतभाषया एव अभाषन्त|आधुनिका काले अपि संस्कृत संभाषण प्रयत्ना: अपि सफला: जायमाना:ल सन्ति| बहव: जना: सद्य: संस्कृतेन भाषन्ते|बाला:,महिला:,ज्येष्ठा:,विभिन्नकर्मकारा:, उद्योगिन:,युवका: इति बहव: भाषन्ते| संस्कृत संभाषण चालनचित्रं इह वर्तते|





 

 

 

 

 

संस्कृतसुभाषिताणि

सद्विषया: इह श्लोकरूपेण बोधिता: वर्तन्ते|सूक्तय: मनुस्मृति,रामायणं,महाभारतं,चाणक्यनीति:,सुभाषित कुसुमाकर:,सुभाषितरत्नभान्दाकार:,सुभाषितरत्नाकर: इत्येतेभ्य: ग्रन्थेभ्य: चा सनग्ऋह्यमाना: सन्ति| 
 
  1.  न चौरहार्यम् न च राजहार्यम् न भ्रातृभाजम् न च भारकारि ।
    व्यये कृते वर्धते
    नित्यं विद्याधनं सर्वधनप्रधानम्
  2. अयं निज: परो वेति गणना लघुचेतसाम् ।
    उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
  3. आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
    पादं सब्रह्मचारिभ्यः पादम् कालक्रमेण च ॥
  4. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
    स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
  5. सत्यस्य वचनं श्रेय: सत्यादपि हितंवदेत् ।
    यद्भूतहितमत्यन्तं ऐतत् सत्यं मतं मम ॥
  6. नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
    शीलं च दुर्लभं तत्र विनयस्तत्र सुदुर्लभः॥
  7. उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।
    सोत्साहस्य च लोकेषु न किंचिदपि दुर्लभम् ॥
  8. उपकारो हि नीचानां अपकरो हि जायते ।
    पयःपानं भुजंगानां
    केवलं विषवर्धनं ॥
  9. न भूतपूर्वं न कदापि वार्ता हेम्न: कुरंगो न कदापि दॄष्ट: ।
    तथापि तॄष्णा रघुनन्दनस्य विनाशकाले विपरीत बुद्धि: ॥